वांछित मन्त्र चुनें

स वृ॑त्र॒हेन्द्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव । कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्य॒: सखि॑भ्यः ॥

अंग्रेज़ी लिप्यंतरण

sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva | kṛṇvann apāṁsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ ||

पद पाठ

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । ऋ॒भु॒क्षाः । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भू॒व॒ । कृ॒ण्वन् । अपां॑सि । नर्या॑ । पु॒रूणि॑ । सोमः॑ । न । पी॒तः । हव्यः॑ । सखि॑ऽभ्यः ॥ ८.९६.२१

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:21 | अष्टक:6» अध्याय:6» वर्ग:35» मन्त्र:6 | मण्डल:8» अनुवाक:10» मन्त्र:21